7. எடுத்து வைத்த அக்கினியை ஆஹவநீயத்தின் இடத்துக்குக் கொண்டுபோகும் விதம் - அத்வர்யு வழியை மூன்று பாகங்களாகப் பண்ணிக்கொண்டு, முதல் பாகத்தில் அக்கினியை முழங்கால் உயரத்திலும், இரண்டாவது பாகத்தில் தொப்புள் உயரத்திலும், கடைசி பாகத்தில் வாய் உயரத்திலும் வைத்துக் கொண்டு போகிறான். அவனுக்குத் தென்புறத்தில் ஒரு குதிரை கூடப்போகிறது. {(1) குதிரையைக் கொண்டு போவதற்குக் காரணம் - முன்னாலே கார்ஹபத்தியமும், ஆஹவநீயமும் ஒன்று மற்றொன்றின் வேலைகளை ஆசைப்பட்டனவாம். அவைகளின் இடங்களுக்கும் நிலையில்லை. பிரஜாபதி என்பவர் குதிரையின் உருவத்தை எடுத்துக்கொண்டுவந்து, இந்த கலகத்தை தீர்த்தாராம். ஆகையால் அவர் ஸ்தாநத்தில் குதிரை கார்ஹபத்தியத்திலிருந்து, ஆஹவநீயத்துக்குப் போய், ஒரு நிலையான ஏற்பாட்டைச் செய்து திரும்பி வருகிறது. குதிரை இல்லாவிட்டால், வெள்ளாட்டை வைத்துக் கொள்ளலாம். (2) குதிரை பசு. அதின் பின்னாலே அக்கினி போனால், அதை அக்கினியினிடம் கொடுத்ததாக ஆகும். யஜமாநனுக்கு பசுக்கள் இல்லாமல் போய்விடும் (तैत्ति.ब्रा.1, प्रश्नः-1, अनु.5, पञ्चा-40,41,42). யாகபூமிக்குத் தென்புறத்தில் பிரும்மா ஒரு வண்டிச்சக்கரத்தை மூன்று தடவை சுற்றும் வரையில் நடத்திக்கொண்டு போகிறான். ஆஹவநீயத்தினிடம் போனபிறகு குதிரையை கிழக்கே கொண்டுபோய், அதின் வலது காலாலே ஸம்பாரங்களின் வடபாகத்தைத் தொடும்படி செய்கிறது. அத்வர்யு அக்கினிக்குக் கீழ்புறத்தில் மேற்கு முகமாய் நின்று கொண்டு, அக்கினியை குதிரையின் கால்பட்ட இடத்தில் சேர்க்கிறான். குதிரையைத் திருப்பிமேற்கே கொண்டு வர வேண்டியது. இதைச் சூரியன் பாதி உதித்தபின் செய்யவேண்டியது. இப்படி ஆதாநமானபிறகு ஸமித்துக்களை ஒவ்வொரு அக்கினியிலும் மூன்று தடவை நெய்யை எடுத்துக் கொண்டு, பூர்ணாஹுதியைச் செய்கிறது. கடைசியில் யஜமாநன் उपस्थानம் (ஸ்தோத்திரம் பண்ணுவது) செய்கிறான். இத்துடன் ஆதாநம் முடிகிறது आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-13,14,15,18.


तैत्ति.ब्रा.1, प्रश्नः-1, अनु.5, पञ्चा-40,41,42
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । न्या॑हव॒नीयो॒ गार्‌ह॑पत्यमकामयत । निगार्‌ह॑पत्य आहव॒नीयम् । तौ वि॒भाज॒न्नाश॑क्नोत् । सोऽश्व॑ पूर्व॒वाड्भू॒त्वा । प्राञ्च॒म्पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑ पूर्ववा॒ट्त्वम् । यदश्व॑म्पु॒रस्ता॒न्नय॑ति । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ॥40॥
यदु॒पर्यु॑परि॒ शिरो॒ हरेत् । प्रा॒णान्‌ विच्छि॑न्द्यात् । अ॒धो॑ऽध॒श्शिरो॑ हरति । प्रा॒णानाङ्गोपी॒थाय॑ । इय॒त्यग्रे॑ हरति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनँ॑ल्लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धख्ष्य॒तीति॑ ॥41॥
तस्य॑ त्रे॒धा म॑हि॒मान॒व्व्यौँ॑हत् । शान्त्या॒ अप्र॑दाहाय । यत्त्रे॒धाऽग्निरा॑धी॒यते । म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति । शान्त्या॒ अप्र॑दाहाय । पुन॒राव॑र्तयति । म॒हि॒मान॑मे॒वास्य॒ सन्द॑धाति । प॒शुर्वा ए॒षः । यदश्वः॑ । ए॒ष रु॒द्रः ॥42॥

आप.श्रौत.सूत्रम्,प्रश्नः-5, कण्डिका-13,14,15,18

कण्डिका-13
1 - अर्धोदिते सूर्य आहवनीयमादधाति; 2 - उदिते ब्रह्मवर्चसकामस्य; 3 - गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति सिकताश्चोपयमनीरुपकल्पयते
4 - तमुद्यच्छत्योजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे / सपत्नतूरसि वृत्रतूः // यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः / पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि // दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः / यत्रयत्र जातवेदः संबभूथ ततो नो अग्ने जुषमाण एहि // उदु त्वा विश्वे देवा इत्येताभिश्चतसृभिः
5 - उपरीवाग्निमुद्यच्छति; 6 - उद्यतमुपयतं धारयति; 7 - अथाश्वस्य दक्षिणे कर्णे यजमानमग्नितनूर्वाचयति या वाजिन्नग्नेः पशुषु पवमाना प्रिया तनूस्तामावह या वाजिन्नग्नेरप्सु पावका प्रिया तनूस्तामावह या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावहेति / धारयत्येवाग्निम्
8 - अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा वोर्ध्वज्ञुरासीनो दक्षिणामग्निमादधाति यज्ञायज्ञीये गीयमाने यथर्ष्याधानेन द्वितीयया व्याहृत्या तिष्र्भिः सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा // यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः / ताभिः संभूयसगणः सजोषा हिरण्ययोनिर्वह हव्यमन्गे // व्यानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै / दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे // अग्नेऽन्नपा मयोभुव सुशेवदिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय / पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके / यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति

कण्डिका-14
1 - यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्यादध्यात्पुष्टिकामस्य; 2 - गृहे त्वस्य ततो नाश्नीयात्; 3 - अम्बरीषादन्नाकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य;4 - वामदेव्यमभिगायत आहवनीय उद्ध्रियमाणे
6 - दक्षिणतो ब्रह्मा रथं रथं रथचक्रं वा वर्तयति यावच्चक्रं त्रिः परिवर्तते; 7 - षट्कृत्वो द्वेष्यस्य; 5 - प्राचीम् अनु प्रदिशम् इत्येषा // विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यः / त्रिषु लोकेषु जागृहि प्रजया च धनेन च // इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय / इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति
8 - जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम् / न कर्णदघ्नमत्युद्गृह्णाति; 9 - यद्युद्गृह्य निगृह्णीयान् मुखेन संमायादध्यात्; 10 - नाग्निमादित्यं च व्यवेयात्; 11 - दक्षिणतः परिगृह्य हरति
12 - अर्धाध्वे यजमानो वरं ददाति; 13 - अर्धाध्वे हिरण्यं निधाय नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमण इत्यतिक्रामति; 14 - प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदोत्तरतः संभारानाक्रमयति यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन्निति
15 - प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति; 16 - पुरस्तात्प्रत्यञ्चमश्वं धारयति; 17 - पूर्ववाडश्वो भवति; 18 - तदभावेऽनड्वान्पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति

कण्डिका-15
1 - कमण्डलुपद आदधीतेति बह्वृचब्राह्मणम् / अजस्य पद आदधीतेति वाजसनेयकम्
2 - अथ यजमानः शिवा जपति ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम् / ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम् / ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम् / ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम् / यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति
3 - यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं पराभावयति; 4 - अरण्येऽनुवाक्या भवन्ति; 5 - यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः / तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्र्य पुरस्तात्प्रत्यङ् तिष्ठन्नाहवनीयमादधाति
6 - बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिः सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्मशिरसा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः / ताभिः संभूय सगणः सजोषा हिरण्ययोनिर् वह हव्यमग्ने // अपानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै / दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे // अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय / पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके / यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामीति संभारेषु निदधाति

कण्डिका-18
1 - द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति / हुतायां यजमानो वरं दत्त्वा शिवा जपति / ये अग्नयो दिवो ये पृथिव्याः समागच्छन्तीषमूर्जं दुहानाः / ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहेति जुहोति
2 - अथ विराट्क्रमैर्यजमान उपतिष्ठतेऽथर्व पितुं मे गोपायान्नं प्रानेन संमितम् / त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपचनम् // नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् / आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहमिति गार्हपत्यम् // शंस्य पशून्मे गोपाय विश्वरूपं धनं वसु / गृहाणां पुष्टिमानन्दं तांस्ते परिददाम्यहमित्याहवनीयम् // सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् / विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् // अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह / अहये बुध्नियाय मन्त्रं श्रियं यशः परिददाम्यहमित्यावसथ्यम् // पञ्चधाग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेः / ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्

Go to Main Page